नारद भक्ति सूत्र
प्रथमोऽध्यायः
अथातो भक्तिं व्याख्यास्यामः ।
सा त्वस्मिन परप्रेमरूपा ।
अमृतस्वरूपा च ।
यल्लब्धवा पुमान सिध्दो भवति अमृतो भवति तृप्तो भवति ।
यत्प्राप्य न किन्चित वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।
सा न कामयमाना निरोधरूपत्वात ।
नेरोधस्तु लोकवेदव्यापारन्यासः ।
तस्मिन्ननन्यता तद्विरोधिषूदासीनता ।
लोकवेदेषु तदनुकूलाचरणं तदविरोधिषूदासीनता ।
भवतु निश्चयदाढर्यादूर्ध्वं शास्त्ररक्षणम् ।
अन्यथा पातित्यशङ्कया ।
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।
तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।
पूजादिष्वनुराग इति पराशर्यः ।
कथादिष्विति गर्गः ।
आत्मरत्यविरोधेनेति शाण्डिल्यः ।
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।
अस्त्येवमेवम् ।
यथा व्रजगोपिकानाम ।
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।
तद्विहीनं जाराणामिव ।
नास्त्येव तस्मिन तत्सुखसुखित्वम् ।
द्वितीयोऽध्यायः
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ।
फलरूपत्त्वात् ।
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च ।
तस्याः ज्ञानमेव साधनमित्येके ।
अन्योन्याश्रयत्वमित्यन्ये ।
स्वयं फलरूपतेति ब्रह्मकुमारः ।
राजगृहभोजनादिषू तथैव दृष्टत्वात् ।
न तेन राजा परितोषः क्षुच्छान्तिर्वा ।
तस्मात् सैव ग्राह्या मुमुक्षुभिः ।
तृतीयोऽध्यायः
तस्याः साधनानि गायन्त्याचार्याः ।
तत्तु विषयत्यागात् सङ्गत्यागात् च ।
अव्यावृत्तभजनात् ।
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद वा ।
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।
लभ्तेऽपि तत्कृपयैव ।
तस्मिंस्तज्जने भेदाभावात् ।
तदेव साध्यतां तदेव साध्यताम् ।
दुस्सङ्गः सर्वथैव त्याज्यः ।
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।
तरङगायिता अपीमे सङ्गात् समुत्रायन्ते ।
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभाव् सेवते निर्ममो भवति ।
यो विविक्तस्थानं सेवते यो लोकबन्धमुनमूनयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति ।
यः कर्मफलं त्यजति कर्माणि सन्नयस्स्यति ततो निर्द्वन्द्वो भवति ।
यो वेदानपि सन्नयस्यति केवलमविच्छिन्नानुरागं लभते ।
स तरति स तरति स लोकांस्तारयति ।
चतुर्थोऽध्यायः
अनिर्वचनीयं प्रेमस्वरूपम् ।
मूकास्वादनवत् ।
प्रकाशते क्वापि पात्रे ।
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् ।
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ।
गौणि त्रिधा गुणभेदाद् आर्तादिभेदाद् वा ।
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति ।
अन्य मात् सौलभं भक्तो ।
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ।
शान्तिरूपात् परमानन्दरूपाच्च ।
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ।
न तत्सिध्दौ लोकव्यवहरओ हेयः किन्तु फलत्यागः तत्साधनं च ।
स्त्रिधननास्तिकचरित्रं न श्रवणीयम् ।
अभिमानदम्भादिकं त्याज्यम् ।
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादुकं तस्मिन्नेव करणीयम् ।
त्रिरूपभङ्गपूर्वमकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्य प्रेमैव कार्यम् ।
पञ्चमोऽध्यायः
भक्ता एकान्तिनो मुख्याः ।
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ।
तीर्थिकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रिकुर्वन्ति शास्त्राणि ।
तन्मयाः ।
मोदन्ते पितरो नृत्यन्ति देवतः सनाथा चेयं भूर्भवति ।
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः ।
यतस्तदीयाः ।
वादो नावलम्ब्यः ।
बाहुल्यावकाशत्वाद अनियतत्त्वाच्च ।
भक्तिशस्त्र्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि ।
सुखदुःखेच्छालाभादित्यके प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थ न नेयम् ।
अहिंसासत्यशौचदयास्तिक्यादिचारित्रयाणि परिपालनीयानि ।
सर्वदा सर्वभावेन निश्चिन्तैः भगवानेव भजनीयः ।
स कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ।
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ।
गुणमाहात्म्यासक्ति रूपासक्ति पूजासक्ति स्मरणासक्ति दास्यासक्ति
सख्यासक्ति वात्सल्यसक्ति कान्तासक्ति आत्मनिवेदनासक्ति तन्मयतासक्ति
परमविरहासक्ति रूपा एकधा अपि एकादशधा भवति ।
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमतः कुमार व्यास शुख शाण्डिल्य
गर्ग विष्णु कौण्डिन्य शेषोध्दवारुणि बलि हनुमद विभीषणादयो भक्त्याचार्याः ।
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रध्दते स भक्तिमान् भवति सः प्रेष्टं
लभते सः प्रेष्टं लभते ।