Institute of Applied Sanskrit- Shaastriya Knowledge | कारिका कारिका | Institute of Applied Sanskrit- Shaastriya Knowledge
Institute of Applied Sanskrit- Shaastriya Knowledge
(An undertaking of Angiras Clan), Chandigarh

अनुप्रयुक्त संस्कृत- शास्त्रीय ज्ञान संस्थान
(आंगिरस कुल का उपक्रम), चण्डीगढ़

House no - 1605, Sector 44 B, Chandigarh. (UT). Pin- 160044

E-mail - sanskrit2010@gmail.com, Mobile - 9464558667

Collaborators in Academic Karma - Saarswatam ®, Chandigarh(UT), Darshan Yoga Sansthaan, Dalhousie(HP)

कारिका

साँख्यकारिका :

दु:खत्रयाभिघाताद् जिज्ञासा तदपघातके हेतौ। दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात्॥१

दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त:। तद्विपरीत: श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्॥२

मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतय: सप्त। षोडकस्तु विकारो न प्रकृतिर्नविकृति: पुरुष:॥३

दृष्टमनुमानमापतवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धि: प्रमाणाद्धि॥४

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्। तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु॥५

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात्। तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम्॥६

अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च॥७

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धे:। महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च॥८

असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्। शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्॥९

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०

त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्॥११

प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था:। अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्चगुणा:॥१२

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज:। गुरु वरणकमेव तम: प्रदीपवच्चार्थतो वृत्ति:॥१३

अविवेक्यादे: सिद्धिस्त्रैगुण्यात्तद्विपर्ययेऽभावात्। कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम्॥१४

भेदानां परिमाणात् समन्वयात् शक्तित: प्रवृत्तेश्च। कारणकार्यविभागादविभागाद्वैश्व्यरूप्यस्य॥१५

कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणत: समुदयाच्च। परिणामत: सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात्॥१६

सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च॥१७

जन्ममरणकरणानां प्रतिनियमादयुगपत्र्धवृत्तेश्च। पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव॥१८

तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च॥१९

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन:॥२०

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रदानस्य। पङ्ग्वन्धवदुभयोरपि संयोगस्ततकृत: सर्ग:॥२१

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशक:। तस्मादपि षोडशकात् पञ्चभ्य: पञ्चभूतानि॥२२

अधयवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्। सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्॥२३

अभिमानोऽहङ्कारस्तस्माद् द्विविध: प्रवर्तते सर्ग:। एकादशकश्च गणस्तन्मात्रापञ्चकश्चैव॥२४

सात्त्विक एकादशक: प्रवर्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्र:स तामसस्तैजसादुभयम्॥२५

बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहु:॥२६

उभयात्मकमत्र मन: सङ्कल्पकमिन्द्रियं च साधर्म्यात्। गुणपरिणामविशेषात् नानात्वं बाह्यभेदाश्च॥२७

शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति:। वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्॥२८

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्यकरणवृत्ति: प्राणाद्या वायव: पञ्च॥२९

युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा। दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्ति:।३०

स्वांस्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्। पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्॥३१

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्। कार्यं च तस्य दशधा हार्यं धार्यं प्रकाश्यं च॥३२

अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्। सामप्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्॥३३

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि। वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि॥३४

सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात्। तस्मात् त्रिविध् करणं द्वारि द्वाराणि शेषाणि॥३५

एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा:। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति॥३६

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:। सैव च विशिनष्टि पुन: प्रधानपुरुषान्तरं सूक्ष्मम्॥३७

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य:। एते स्मृता विशेषा: शान्ता घोराश्च मूढाश्च॥३८

सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु:। सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते॥३९

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्॥४०

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्॥४१

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन। प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्॥४२

सांसिद्धिकाश्च भावा: प्राकृतिका वैकृतिकाश्च धर्माद्या:। दृष्टा: करणाश्रयिण: कार्याश्रयिणश्च कललाद्या:॥४३

धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण। ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्ध:॥४४

वैराग्यात्प्रकृतिलय: संसारि भवति राजसाद्रागात्। ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यय:॥४५

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य:। गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत्॥४६

पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्। अष्टाविंशतिभेदास्तुष्टिर्नवधाष्टधा सिद्धि:॥४७

भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोह:। तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्र:॥४८

एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा। सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्॥४९

आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या:। बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिमता:॥५०

ऊह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुहृत्प्राप्ति:। दानं च सिद्धयोऽष्टौ सिद्धे: पूर्वाङ्कुशस्त्रिविध:॥५१

न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति:। लिङ्गाख्यो भावाख्यश्च द्विविध: सर्ग: प्रवर्तते॥५२

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति। मानुष्यश्चैकविध: समासतो भौतिक: सर्ग:॥५३

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग:। मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्त:॥५४

तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:। लिङ्गस्याविनिवृत्तेस्तस्माद् दु:खं स्वभावेन॥५५

इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त:। प्रतिपुरुषविमोक्षार्थं स्वार्थिव परार्थ आरम्भ:॥५६

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति: प्रधानस्य॥५७

औत्सुक्यनिवृत्यर्थे यथा क्रियासु प्रवर्तते लोक:। पुरुषस्य विमोक्षार्थे प्रवर्तते तद्वदव्यक्तम्॥५८

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्। पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृति:॥५९

नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस:। गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति॥६०

प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्मीति पुर्न दर्शनमुपैति पुरुषस्य॥६१

कारणमीश्वरमेके ब्रुवते कालं परे स्वभावं वा। प्रजा: कथं निर्गुणतो व्यक्त: काल: स्वभावश्च॥६१अ

तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥६२

रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति:। सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण॥६३

एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥ ६४

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्। प्रकृतिं पश्यति पुरुष: प्रेक्षकवदवस्थित: सुस्थ:॥६५

दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। सति संयोगेऽपि तयो: प्रयोजनं नास्ति सर्गस्य॥६६

सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। तिष्ठति संस्कारवशाच्चक्रभ्रमिवद् धृतशरीर:॥६७

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्ते:। ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति॥६८

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्। स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्॥६९

एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ। आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम्॥७०

शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभि:। सङ्क्षिप्तमार्यमतिना सम्यग् विज्ञाय सिद्धान्तम्॥७१

सप्तत्या किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य। आख्यायिकाविरहिता: परवादविवर्जिताश्चापि॥७२

प्रथमं परिशिष्टम्

‘कारिका- प्रतिपाद्यम्

कारिका क्र. प्रतिपाद्यम्
01 साङ्ख्यशास्त्रारम्भ: किमर्थम्?
02 साङ्ख्यशास्त्रारम्भ: किमर्थम्?
03 पूर्वतनकारिकायाम् उक्तानां व्यक्त-अव्यक्त-ज्ञपदानाम् अर्था:।(साङ्ख्यशास्त्रे प्रमेयपदार्था: )
04 साङ्ख्यशास्त्रे प्रमाणपदार्था:
05 प्रमाणानां लक्षणानि।
06 केन प्रमाणेन कस्य प्रमेयस्य सिद्धि: शक्या?
०7 प्रत्यक्षप्रमाणस्य मर्यादा:।
08 व्यक्त-अव्यक्त-ज्ञपदार्थानां प्रत्यक्षज्ञानं किमर्थं न भवति? अनुमानेन कथं भवति?
09 सत्कार्यवाद:।(अव्यक्तस्य सिद्ध्यर्थम्)
10 व्यक्ताव्यक्तयो: वैधर्म्यम्।
11 व्यक्ताव्यक्तयो: परस्परं साधर्म्यम्। व्यक्ताव्यक्तयो: पुरुषात् वैधर्म्यम्।
12 पूर्वतनकारिकायां ‘ ‘ त्रिगुणम् ’ इति पदमस्ति , तस्य विवरणम्।
13 त्रिगुणनामानि। तेषां प्रवृत्ति: किमर्थं भवति?
14 व्यक्ताद् अव्यक्तस्य सिद्धि:। तस्य अविवेकित्वादिधर्माणां (11 कारिका) च सिद्धि:।
15 व्यक्ताद् अव्यक्तस्य सिद्धि:। (अनुमानम् ।)
16 अव्यक्ताद् व्यक्तं कथं जायते?(प्रकारद्वयम्)
17 अव्यक्तादिपदार्थेभ्य: पुरुष: इति भिन्न: पदार्थ: अस्ति। (पुरुषस्य सिद्धि:।)
18 पुरुषबहुत्वस्य सिद्धि:।
19 पुरुषस्य धर्मा:।
20 चैतन्यं पुरुषे चेत् कर्तृत्वं प्रकृतौ कथम्? इति विरोधस्य समाधानम्।
21 सर्गस्य कारणं प्रकृतिपुरुषयो: संयोग:। तस्य संयोगस्य प्रयोजनम्?
22 सर्गस्य क्रम: ।
23 सर्गस्थपदार्थानां क्रमश: वर्णनम् । तत्र प्रथमं बुद्धे: लक्षणम्।
24 अहङ्कारलक्षणम्।अहङ्कारात् द्विविध: सर्ग:।
25 अहङ्कारात् द्विविध: सर्ग: कथं भवति?
26 पञ्च ज्ञानेन्द्रियाणि। पञ्च कर्मेन्द्रियाणि।
27 एकादशम् इन्द्रियम्।
28 दशानामिन्द्रियाणां वृत्तय: (व्यापारा:।)
29 अन्त:करणत्रयस्य वृत्तय:।(व्यापारा:।)
30 अन्त:करणत्रयस्य युगपत् क्रमश: च प्रवृत्ति:।
31 करणस्य (इन्द्रियस्य) प्रवृत्ति: केन हेतुना भवति?
32 करणस्य 13 प्रकारा:, 10 कार्याणि।
33 त्रयोदशविधस्य करणस्य उपभेदा:।
34 बाह्येन्द्रियाणां विषयानां विवेचनम्।
35 त्रयोदशसु इन्द्रियेषु गौणमुख्यविवेक:।
36 मन: तथा अहङ्कार: एताभ्यां बुद्धि: प्रधाना।
37 बुद्धि: प्रधाना इति एतस्य अधिकं विवरणम्।
38 5 तन्मात्रा: तथा 5 भूतानि।भूतानां त्रय: भेदा:।
39 भूतानां त्रय: उपभेदा:।(सूक्ष्मदेह-स्थूलदेह-प्रभूता: )
40 धर्माधर्मादिभावै: युक्तस्य सूक्ष्मदेहस्य विविधेषु स्थूलदेहेषु संसरणम् ।
41 संसरणं बुद्धे: अथवा सूक्ष्मदेहस्य? (बुद्धि: तथा सूक्ष्मशरीरमिति अनयो: आश्रयाश्रयिभाव:।)
42 सूक्ष्मशरीरं किमर्थं स्थूलदेहं धारयति? (निमित्तनैमित्तिकभावानां प्रसङ्गेन)
43 निमित्तनैमित्तिकभावा: कुत्र सन्ति?
44 निमित्तनैमित्तिकभावानां परस्परं सम्बन्ध:।
45 अज्ञानरूपस्य निमित्तस्य (ज्ञानरहितस्य वैराग्य-राग-ऐश्वर्यस्य ) फलस्य वर्णनम्।
46 विपर्यय: अशक्ति: तुष्टि: सिद्धि: इति भावा: (कारिका 40 ) बुद्धे: धर्मा:। तेषां 50 भेदा: ।
47 50 भेदानां गणनम्।
48 विपर्यय: बुद्धे: धर्म: । तस्य भेदा: उपभेदा: च।
49 अशक्ति: बुद्धे: धर्म: । तस्या: उपभेदा:।
50 तुष्टि: बुद्धे: धर्म: । तस्या: उपभेदा:।
51 सिद्धि: बुद्धे: धर्म: । तस्या: उपभेदा:।
52 तन्मात्रसर्ग: तथा प्रत्ययसर्ग: (द्विविध: प्रवर्तते सर्ग:।-कारिका 24) उभयो: आवश्यकता।
53 प्रत्ययसर्गस्य विवरणं समाप्तम्।इदानीं भूतादिसर्गस्य वर्णनम्।
54 भूतादिससर्ग: ऊर्ध्व-मध्य-मूलभेदेन त्रिविध: ।
55 अयं सर्ग: दु:खमय:।
56 पुरुषस्य मोक्षार्थम् अयं सर्ग: प्रकृत्या क्रियते।
57 जडा प्रकृति: कथं सर्गं करोति?
58 प्रकृति: किमर्थं सर्गं करोति?
59 प्रकृति: किमर्थं निवर्तते?
60 पुरुषसंयोगेन प्रकृते: न कोऽपि लाभ:।
61 एकवारमेकस्मात् पुरुषात् निवृत्ता प्रकृति: पुन: तस्मिन् पुरुषे न प्रवर्तते।
61 जगत्कारणविषये अन्येषां मतानि।
62 वस्तुत: बन्धमोक्षौ प्रकृते:, न तु पुरुषस्य ।
63 प्रकृते: बन्ध: कथं भवति मोक्ष: च कथं भवति?
64 एतस्य तत्वज्ञानस्य अभ्यासेन तत्त्वसाक्षात्कार:।
65 तत्त्वसाक्षात्कारेण प्रक्र्ते: निवृत्ति:।
66 एकवारं निवृत्ता प्रकृति: पुन: कथं न प्रवर्तते?
67 सम्यग्ज्ञानानन्तरं शरीरस्य का गति:?
68 शरीरपाते सति ऐकान्तिकम् आत्यन्तिकं च कैवल्यम्।
69 एतत् साङ्ख्यशास्त्रं परमर्षिणा कपिलेन प्रतिपादितम्।
70 कपिल: आसुरि: पञ्चशिख: इति शिष्यपरम्परा।
71 अस्याम् एव परम्परायाम् अस्ति कारिका-कार: ईश्वरकृष्ण:।
72 षष्टितन्त्रे यत् प्रतिपादितं तदेव एतस्मिन् ग्रन्थे प्रतिपादितम्।

द्वितीयं परिशिष्टम्

साङ्ख्यकारिका अकारादिक्रमेण।

 

कारिका क्र.
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। ०७
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्। २३
अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्। ३३
अभिमानोऽहङ्कारस्तस्माद् द्विविध: प्रवर्तते सर्ग:। २४
अविवेक्यादे: सिद्धिस्त्रैगुण्यात्तद्विपर्ययेऽभावात्। १४
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति। ५३
असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्। ०९
आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या:। ५०
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त:। ५६
उभयात्मकमत्र मन: सङ्कल्पकमिन्द्रियं च साधर्म्यात्। २७
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग:। ५४
ऊह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुहृत्प्राप्ति:। ५१
एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा। ४९
एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ। ७०
एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा:। ३६
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। ६४
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य:। ४६
औत्सुक्यनिवृत्यर्थे यथा क्रियासु प्रवर्तते लोक:। ५८
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्। ३२
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणत: समुदयाच्च। १६
कारणमीश्वरमेके ब्रुवते कालं परे स्वभावं वा। ६१अ
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। ४१
जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च। १८
तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:। ५५
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य:। ३८
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य। १९
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। २०
तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित्। ६२
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्। ६५
त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि। ११
दु:खत्रयाभिघाताद् जिज्ञासा तदपघातके हेतौ। ०१
दृष्टमनुमानमापतवचनं च सर्वप्रमाणसिद्धत्वात्। ०४
दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त:। ०२
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। ६६
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण। ४४
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति:। ५२
नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस:। ६०
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्। ४७
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रदानस्य। २१
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्। ६९
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन। ४२
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। ४०
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशक:। २२
प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। ६१
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्। ०५
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्ते:। ६८
प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था:। १२
बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि। २६
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि। ३४
भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोह:। ४८
भेदानां परिमाणात् समन्वयात् शक्तित: प्रवृत्तेश्च। १५
मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतय: सप्त। ०३
युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा। ३०
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्। ५९
रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति:। ६३
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। ५७
वैराग्यात्प्रकृतिलय: संसारि भवति राजसाद्रागात्। ४५
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति:। २८
शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभि:। ७१
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्। १७
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज:। १३
सप्तत्या किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य। ७२
सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ। ६७
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:। ३७
सांसिद्धिकाश्च भावा: प्राकृतिका वैकृतिकाश्च धर्माद्या:। ४३
सात्त्विक एकादशक: प्रवर्तते वैकृतादहङ्कारात्। २५
सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात्। ३५
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात्। ०६
सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु:। ३९
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धे:। ०८
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। २९
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्। ३१
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। १०

तृतीयं परिशिष्टम्

अभिस्थापित रेखा

साङ्ख्यकारिका-शब्दकोश:।
सङ्केतसूची

(पुं) – पुंलिङ्गम्
(स्त्री.) – स्त्रीलिङ्गम्
(नपुं) – नपुंसकलिङ्गम्
(विशे.) – विशेषणम्
प्र. – प्रस्तुतस्थले
(अ.) – अव्ययम्
(विधे.) – विधेयम्।
कंसस्थसङ्ख्या – कारिकाङ्कं द्योतयति।

अङ्कुश: (पुं) (50)अष्टसु सिद्धिषु विघ्न:।

अचेतनम् (विशे.) (17) जडम् । प्र. लिङ्गम् इत्यस्य विशे.।

अतिशय: (पुं) (2) तादृशी स्थिति: यत्र एकस्य सुखाद् अन्यस्य सुखम् अधिकम्।

अत्यन्तत: (अ.) (1) पूर्णत:।

आत्यन्तिकम् (विशे.) (68) पूर्णम् । प्र. कैवल्यम् इत्यस्य विशे.।

अदृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।

अधस्तात् (अ.) (44) निकृष्टलोक:।

अधिष्ठानम् (नपुं) (17) आश्रय:।

अध्ययनम् (नपुं) (50) गुरूच्चारणपूर्वकम् अनूच्चारणम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

अध्यवसाय: (पुं) (5,23) प्रत्यक्षज्ञानार्थं बुद्धितत्वस्य व्यापारविशेष:। यथा- सविषयम् इन्द्रियं बुद्धौ प्रतिबिम्बितं भवति। एतादृशी प्रतिबिम्बयुता बुद्धि: चैतन्ये प्रतिबिम्बिता भवति।तत्र चैतन्यस्य प्रकाशेन प्रकाशिता भवति।तेन प्रकाशेन स्वगृहीतं विषयम् अपि प्रकाशयति।

अनवस्थानम् (नपुं) (7) स्वस्थानत: च्युति:।

अनुपलब्धि: (स्त्री.) (8)अज्ञानम् ।

अन्त:करणम् (नपुं) (33,35) देहान्तर्गतं ज्ञानसाधनम्।

अन्धतामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:। भयम्।

अन्योन्यजननम् (नपुं) (12) परस्परं जननम्।

अन्योन्यमिथुनम् (नपुं) (12) परस्परं सङ्गति:।

अन्योन्याभिभव: (पुं) (12) परस्परं पराभव:।

अन्योन्याश्रय: (पुं) (12) परस्परम् आश्रय:।

अपघातक: (विशे.) (1) अपघातं करोति इति अपघातक:।नाशकर: इत्यर्थ:। प्र. हेतुशब्दस्य विशे.।

अपवर्ग: (पुं) (44) मोक्ष:।

अपार्था (विशे.) (1) निरर्थकी। प्र. जिज्ञासा इत्यस्य विशे.।

अपार्थकम् (अ.) (60) स्वप्रयोजनरहितम् ।

अभिघात: (पुं) (1)प्र. संयोग:।

अभिभव: (पुं) (7)पराभव:।

अभिमान: (पुं) (24) अहम् इति तथा मम इति भावना।

अयुगपत्प्रवृत्ति: (स्त्री.) (18) युगपत् नाम समानकाले ।प्रवृत्ति: प्रयत्न:। समानकाले प्रयत्नस्य अभाव: इत्यर्थ:।

अर्थ: (पुं) (13) पुरुषार्थ:।

अविकृति: (स्त्री.) (3) न विकृति:। विकृति: नाम कार्यं , परिणाम:। अविकृति: नाम तादृशं तत्त्वं, यत् कस्य अपि अन्यतत्त्वस्य परिणामस्वरूपं नास्ति। प्र. मूलप्रकृति:।

अविवेकि (विशे.) (11) विवेकरहितम्। विवेक: अत्र विवेचनम् पृथक्करणं वा।प्र. व्यक्तं तथा प्रधानम् इत्यनयो: विधे.।

अविशेष: (विशे.) (34,38) सूक्ष्म:। प्र. विषय: इत्यस्य विशे.।

अव्यक्तम् (नपुं) (2,10,14,16,58) – प्रकृतितत्त्वम्।

अव्यापि (विशे.) (10)- अव्यापकम् ।प्र. व्यक्तम् इत्यस्य विधे.।

अशक्ति: (स्त्री.) (46,47,49)- असामर्थ्यम्।

अष्टविकल्प: (पुं) (53)- अष्टप्रकारक:। प्र. दैवसर्ग: इत्यस्य विधे.।

असक्तम् (विशे.) (40)-अकुण्ठितम्। प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।

असत् (विशे.) (8) – अभावरूपम्। प्र. कार्यम् इत्यस्य विशे.।

अहङ्कार: (पुं) (22,24) अभिमानकर्मकं तत्त्वम्।

– – – – –

आध्यात्मिकी (विशे.) (50) – आत्मविषये । प्र. तुष्टि:इत्यस्य विशे.।

आनुश्रविक (विशे.) (2) – अनुश्रव: नाम वेद:। अनुश्रवे प्रतिपादित: आनुश्रविक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।

आप्तश्रुति: (स्त्री.) (5)-आप्त: नाम: युक्त: योग्यताधर्मेण युक्त:।श्रुति: नाम शाब्दबोध:।योग्यताधर्मेण युक्त: शाब्द-बोध: आप्तश्रुति:।

आभन्तरम् (विशे.) (33) -यद् देहस्य अंतर्भागे कार्यं करोति।प्र. करणम् इत्यस्य विशे.।

आलोचनम् (नपुं) (28) -दर्शनम्।

आहरणकरम् (विशे.) (32)-वचनम् आदानं, विहरणम् उत्सर्जनम् आनन्द: इति एतेषां पञ्चानां कर्मणाम् आहरणम् इति संज्ञा।आहरणं करोति इति आहरणकरम्। प्र. करणम् इत्यस्य विशे.।

– – – – –

इन्द्रियम् (नपुं) (26,27,49)-सात्त्विकाहङ्कारजं तत्त्वम्।

– – – – –

उ उदासीन: (पुं) (20) -रागद्वेषशून्य:।

उपरम: (पुं) (50)-वैराग्यम्।

उपलब्धि: (स्त्री.) (8)- ज्ञानम्।

उपस्थम् (नपु.) (26)-आनन्दकर्मकरम् इन्द्रियम्।

उपष्टम्भकम् (विशे.) (13) – प्रेरकम्। प्रवर्तकम्।प्र. रज: इत्यस्य विधे.।

उपादानम् (नपुं) (9) – कार्येण सह नित्यं सम्बद्धं कारणम्।यथा घटस्य उपादानं मृत्तिका।

उपादानम् (नपुं) (50) – आध्यात्मिकतुष्टे: अन्यतर: भेद:।कैवल्यार्थं प्रव्रज्यारूपस्य साधनस्य उपादानमात्रेण स्वीकारमात्रेण तुष्टि: इत्यर्थ:।

उभयात्मकम् (विशे.) (27) – ज्ञानेन्द्रियं तथा कर्मेन्द्रियम् इति उभयविधं यस्य स्वरूपम् अस्ति तत् । प्र. मन: इत्यस्य विशे.।

– – – – –

ऊर्ध्वम् (अ.) (44,54) -उत्तमलोक:।

ऊह: (पुं) (50)-वेदार्थानुकूलेन तर्केण वेदार्थपरीक्षणम्। पूर्वपक्ष-निरासपूर्वकम् उत्तरपक्षस्थापनम्। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

– – – – –

एकादशक: (विशे.) (24)-एकादशानाम् इन्द्रियाणां समूह:।प्र. गण: इत्यस्य विशे.।

एकान्त: (पुं) (1,68) -निश्चय:।

– – – – –

ऐकान्तिकम्(विशे.) (68) अवश्यंभावि।प्र. कैवल्यम् इति एतस्य विशे.।

ऐश्वर्यम् (नपुं) (45) बुद्धे: विशेष:।अणिमा, महिमा, लघिमा, प्राप्ति:, प्राकाम्यं, वशित्वम्, ईशित्वम्, सत्यसकल्पता इति एता: अष्टौ सिद्धय: ऐश्वर्यसंज्ञका:।

– – – – –

औत्सुक्यम् (नपुं) (58) -इच्छा।

– – – – –

करणम् (नपुं) (18,32,35)-5 ज्ञानेन्द्रियाणि, 5 कर्मेन्द्रियाणि, मन:, बुद्धि:, अहङ्कार: इति एतद् आहत्य करण-संज्ञकं भवति।

करणम् (नपुं) (43)-प्र. बुद्धि:।

करणवैकल्यम् (नपुं) (47)- इन्द्रियाणाम् असामर्थ्यम्।

कर्ता (पुं) (20) -क्रियायां स्वतन्त्र:।

कललाद्या: (विशे.) (33)-कलल: नाम गर्भस्य द्रवावस्था। कलल: आद्य: येषां ते कललाद्या:। प्र. स्थूलदेहभावा: इत्यस्य विशे.।

कारिका (स्त्री.) (ग्रन्थनाम्नि)-अल्पाक्षरत्वे सति बह्वर्थज्ञापकं पद्यम्।

कार्यम् (नपुं) (43)-प्र. स्थूलदेह:।

काल: (पुं) (50)-आध्यात्मिकतुष्टे: अन्यतर: भेद:।“‘ कालेन मम कैवल्यप्राप्ति: भविष्यति इति भावना ।’ ‘

कैवल्यम् (नपुं) (17,19,21,68)-प्रकृतिपुरुषविवेकदर्शनात् पुरुषस्य स्वरूपेण अवस्थानम्।

– – – – –

गुणकर्तृत्वम् (नपुं) (20) -त्रिगुणानां कर्तृत्वम्।

गुणपरिणामविशेष: (पुं) (27)-गुणा: नाम त्रिगुणा: ।तेषां परिणाम: नाम कार्यम्। तस्मिन् गुणकार्ये विशेष: नाम वैचित्र्यम्।

गुणविशेष: (पुं) (36)-गुणा: अत्र सत्त्वसजस्तमांसि। विशेष: नाम विकार: । त्रिगुणानां विकाररूप: इत्यर्थ:।

गुणवैषम्यविमर्द: (पुं) (46) -गुणा: अत्र त्रिगुणा:। तेषु वैषम्यं नाम न्यूनाधिकभाव:।तेन न्यूनाधिकभावेन जात: परस्परं विमर्द: नाम पराभव:। – –

– – –

घोर: (विशे.) (38)-दु:खकर:।प्र. भूतानि इति एतेषां विशे.।

घ्राणम् (नपुं) (26)-गन्धग्राहकम् इन्द्रियम्।

चक्षु: (नपुं) (18) रूपग्राहकम् इन्द्रियम्।

– – – – –

जन्म (नपुं) (18) देहेन्द्रियादिसङ्घातेन सह पुरुषस्य सम्बन्ध:।

जिज्ञासा (स्त्री.) (1) ज्ञातुम् इच्छा।

ज्ञ: (पुं) (2) ज्ञाता ।पुरुषतत्त्वम् ।

ज्ञानम् (नपुं) (44) प्रकृति: तथा पुरुष: परस्परं भिन्नौ इति प्रकृति-पुरुष-विवेकस्य बोध:।

– – – – –

तन्मात्रा: (स्त्री.) (24,38) भूतादे: अहङ्कारात् जातानि 5 तत्त्वानि।

तम: (पुं) (48) पञ्चसु विपर्ययेषु (मिथ्याज्ञानेषु) अन्यतम:। अव्यक्तं, महत् अहङ्कार:,तथा पञ्च तन्मात्रा: इति एतेषु अष्टसु तत्त्वेषु आत्मदृष्टिभावनम्।

तामस: (विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। तामस: (भूतादि:) अहङ्कार: इति।

तामिस्र: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।द्वेष:

तुष्टि: (स्त्री.) (46,47,49,50) बुद्धे: धर्म:।

तैजस: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:।सात्त्विक-तामसयो: अहङ्कारयो: प्रेरक:। प्र. अहङ्कार: इत्यस्य विशे.। तैजस: अहङ्कार: इति।

तैर्यग्योन: (विशे.) (53) तिर्यग्योनिषु जातानाम् । प्र. सर्ग: इत्यस्य विशे.।

त्रिकालम् (विशे.) (33) त्रिषु कालेषु कार्यं कर्तुं समर्थम् ।प्र. आभ्यन्तरकरणम् इत्यस्य विधे..।

त्रिगुणादिविपर्यय: (पुं) (17) त्रिगुणादिभ्य: भेद:।

त्रैगुण्यविपर्यय: (पुं) (18) त्रिगुणानां तरतमभाव:।

त्वक् (स्त्री.) (26) स्पर्शग्राहकम् इन्द्रियम्।

– – – – –

दानम् (नपुं) (50) शुद्धि:।विक्षेपदोषरहिता विवेकख्याति:।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

दु:खत्रयम् (नपुं) (1) त्रयाणां दु:खानां समाहार:।आध्यात्मिकम् आधिदैविकम् आधिभौतिकं च इति एतद् दु:खत्रयम्।

दु:खविघात: (पुं)(50) दु:खत्रयस्य नाश:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

दृष्ट: (विशे.) (1) लौकिक:।प्र. दु:खनाशकहेतु: इत्यस्य विशे.।

दृष्ट: (विशे.) (30) प्रत्यक्षम् । प्र. विषय: इत्यस्य विशे.।

दृष्टम् (विशे.) (4) प्रत्यक्षम् । प्र. प्रमाणम् इत्यस्य विशे.।

दैव: (विशे.) (53)देवानाम्। प्र. सर्ग: इत्यस्य विशे.।

द्वारम् (नपुं) (35)गौणम् ।

द्वारि (नपुं) (35)प्रधानम्।

– – – – –

धर्म: (पुं) (23,44) यस्मात् साधनात् ऐहिकोत्कर्षस्य मोक्षस्य च सिद्धि: भवति तत् साधनम्।

धर्माद्या: (वि.) (43)धर्म: आद्य: येषां ते धर्माद्या:। धर्म:, अधर्म:, ज्ञानम्, अज्ञानम्, वैराग्यम्, आसक्ति:, ऐश्वर्यम्, अनैश्वर्यम् इति अष्टौ बुद्धे: विशेषा:।

धारणकरम् (विशे.) (32) धारणं नाम देहादिसङ्घातस्य प्रवर्तनम्।तत् करोति इति धारणकरम्। प्र. करणम् इत्यस्य विशे.।

धार्यम् (विशे.) (32) धारणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।शरीरम् इति यावत्।

– – – – –

निमित्तम् (नपुं) (42)कारणम् । प्र. धर्माधर्मादय:भावा:।(कारिका23)

नियतम् (विशे.) (40) नित्यम् ।प्र. सूक्ष्मशरीरम् इत्यस्य विशे.।

निरुपभोगम् (वि.) (40)उपभोगसामर्थ्यरहितम् ।

नैमित्तिकम् (नपुं) (42)कार्यम्। प्र. स्थूलदेह:।

– – – – –

परस्पराकूतहेतुका (विशे.) (31) आकूतं नाम अभिप्राय:। हेतु: नाम कारणम्। प्र. वृत्ति: इत्यस्य विशे.। मन: बुद्धि: अहङ्कार: इति एतेषां त्रयाणां परस्परं य: अभिप्राय: स: एव कारणम् अस्ति यस्या: वृत्ते: तादृशी वृत्ति: इत्यर्थ:।

परार्थ: (पुं) (17) पर: नाम अन्य:।परार्थ: नाम अन्यस्य कृते ।

परिणाम: (पुं) (16) परिवर्तनम्।

परिमाणम् (नपुं) (15) अव्यापकत्वम्।मर्यादा।

पाणि: (पु.) (26) आहरणकर्मकरम् इन्द्रियम्।

पाद:(पु.) (26) विहरणकर्मकरम् इन्द्रियम्।

पायु: (पु.) (26) विसर्जनकर्मकरम् इन्द्रियम्।

पुमान् (पुं) (11,60) पुरुषतत्त्वम् ।

पुरुष: (पुं) (3,17,18,21,36,37,55,56,57,58,59,61,65) पुरि शेते इति पुरुष:।पुर् नाम नगरम्। तत्र शेते निवसति इति पुरुष:।

पुरुषार्थ: (पुं) (31,41,63,69)पुरुषस्य प्रयोजनम्।

प्रकाशकरम् (विशे.) (32)प्रकाश: नाम प्रकटं, व्यक्तम्।प्रकटं करोति, व्यक्तं करोति इति प्रकाशकरम्। प्र. करणम् इत्यस्य विशे.।

प्रकाश्यम् (विशे.) (32)प्रकाशनकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.। शरीरम् इति यावत्।

प्रकृति: (स्त्री.) (22,42,45,56,59,61,62,63,65) सत्त्वरजस्तमसां साम्यावस्था।

प्रकृति: (स्त्री.) (50)आध्यात्मिकतुष्टे: अन्यतर: भेद:।प्रकृतियोगेन तुष्टि: इत्यर्थ:।

प्रतिनियम: (पुं) (18)व्यवस्था।

प्रतिप्रतिगुणाश्रयविशेष: (पुं) (16)प्रत्येकं प्रत्येकं गुण: नाम प्रतिप्रतिगुण:।तस्य एकस्य एकस्य गुणस्य आश्रय: प्रतिप्रति-गुणाश्रय:। विशेष: नाम वैचित्र्यम्। एकस्य एकस्य गुणस्य आश्रयात् जातं वैचित्र्यं नाम प्रति-प्रतिगुणाश्रयविशेष: ।

प्रतिविषयम् (नपुं) (5)विषय-सन्निकृष्टम् इन्द्रियम्।अस्य पदस्य अर्थे इन्द्रियम्, तस्य अर्थ:, तथा च तयो: सन्निकर्ष: इति एतत् सर्वं गृहीतम्।

प्रतीति: (स्त्री.) (6)अनुभूति:।

प्रत्ययसर्ग: (पुं) (46)प्रत्यय: नाम बुद्धि: । सर्ग: नाम प्रपञ्च:।बुद्धे: प्रपञ्च: इत्यर्थ:।

प्रदीपकल्प: (विशे.) (36)दीप: इव।प्र.बाह्येन्द्रियाणि, मन: तथा च अहङ्कार: इति एतेषां विधे.।

प्रधानम् (नपुं) (11,21,37,57,68) प्रकृति:।

प्रभूतम् (नपुं) (39)आकाशादिमहाभूतम्।

प्रसङ्ग: (पुं) (42)आसक्ति:।

प्रसवधर्मि (विशे.) (11)प्रसव: नाम कार्यजननम्। कार्यजननम् इति धर्म: यस्य तत् तत्त्वम्।प्र. व्यक्तं तथा प्रधानम् इति उभयो: विशे.।

प्राकृतिक: (विशे.) (43)प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।

प्राणाद्या: (विशे.) (29)प्राण: आद्य: येषां ते प्राणाद्या: । प्र. प्राण: उदान: समान: व्यान: अपान: च इति पञ्चानां वायुप्रकाराणां विशे.।

– – – – –

बुद्धि: (स्त्री.) (23,35,36,37,49)महत्तत्त्वम्।

बुद्धीन्द्रियम् (नपुं.) (26,34)ज्ञानेन्द्रियम् ।

– – – – –

भाग्यम् (नपुं.) (50) आध्यात्मिकतुष्टे: अन्यतरभेद: ।‘““भाग्येन एव मम कैवल्यलाभ: भविष्यति इति भावना।‘ ‘’

भाव: (पुं) (40) धर्म:, अधर्म: ज्ञानम् अज्ञानम्, वैराग्यम् आसक्ति: ऐश्वर्यम् अनैश्वर्यम् इति अष्टौ बुद्धे: धर्मा:।

भाव: (पुं) (52) प्रत्ययसर्ग:।

भूतम् (नपुं) (22,38,56,69)बहिरिन्द्रियग्राह्य: विशेषगुण: (शब्द-स्पर्श-रूप-रस-गन्धेषु अन्यतम:।) यस्मिन् विद्यते स: पदार्थ:।पृथिवी आप: तेज: वायु: आकाश: इति 5 भूतानि सन्ति।

भूतादि:(विशे.) (25)अहङ्कारस्य अन्यतम: भेद:। भूतानां कारणम्। प्र. अहङ्कार: इत्यस्य विशे.। भूतादि: (तामस:) अहङ्कार: इति।

भोक्तृभाव: (पुं) (17) सुखदु:खयो: अनुभविता भोक्ता। तस्य भाव:।

भौतिक: (विशे.) (53)भूतै: निर्मित:। प्र. सर्ग: इत्यस्य विशे.।

– – – – –

मरणम् (नपुं) (18) विद्यमानदेहादि-सङ्घातेन सह पुरुषस्य वियोग:।

महदाद्या: (सप्त) (स्त्री.) (3) महदादिसर्ग:।महत् अहङ्कार: तथा च 5 तन्मात्रा: इति आहत्य महदाद्या: (सप्त) ।

महत् (पुं) (22,56) सर्गारम्भे जायमानं तत्त्वम्।

महामोह: (पुं) (48) पञ्चसु विपर्ययेषु अन्यतम:।विषयेषु आसक्ति:।

‘माध्यस्थ्यम् (नपुं) (19) सुखदु:खमोहै: अलिप्तत्वम्।

मानुष्य: (विशे.) (53) मनुष्याणाम्। प्र. सर्ग: इत्यस्य विशे.।

मूढ: (वि.) (38) अज्ञानस्वरूप:।प्र. भूतानि इति एतेषां विशे.।

मोह: (पुं) (48)पञ्चसु विपर्ययेषु अन्यतम:।अणिमादि ऐश्वर्यं मम अस्ति, तत् शाश्वतम् अस्ति अत: अहम् अमर:’ इति भावना।

– – – – –

युगपत् (अ.) (29) समानकाले ।

– – – – –

रसनम् (नपुं) (26) रसग्राहकम् इन्द्रियम्।

राजस: (विशे.) (45) रजोगुणप्रधान:। प्र. राग: इति एतस्य विशे.।

राग: (पुं) (45)आसक्ति:।

रूपम् (नपुं) (63,65)धर्माधर्मादय: अष्टौ बुद्धे: भावा:।

– – – – –

लिङ्गम् (नपुं) (5) अनुमाने हेतु:।यथा ‘‘पर्वत: वह्निमान्, धूमात्’ इति अनुमाने धूम: लिङ्गम् ।

लिङ्गम् (नपुं) (10) लक्षणम्। चिह्नम्।प्र. व्यक्तम् इत्यस्य विधे.।व्यक्तं प्रकृते: पुरुषस्य च चिह्नं भवति।

लिङ्गम् (नपुं) (40,41,42,55) सूक्ष्मशरीरम्।

लिङ्गम् (नपुं) (52) तन्मात्रासर्ग:।

लिङ्गि (नपुं) (5)अनुमाने साध्यम्।यथा‘‘पर्वत:वह्निमान् धूमात्’ इति अनुमाने वह्नि: लिङ्गि ।

– – – – –

वध: (पुं) (49) स्वकार्यकरणे असामर्थ्यम्।

वरणकम् (विशे.) (13) आवरकम्। प्र. तम: इत्यस्य विधे.।

वाक् (स्त्री.) (26,34)वचनकर्मकरम् इन्द्रियम्।

विकृति: (स्त्री.) (3) कार्यम्।

विपर्यय: (पुं) (46,47) मिथ्याज्ञानम्।

विभुत्वयोग: (पुं) (42) विभुत्वं नाम प्रभुत्वं, सामर्थ्यम् । तेन सह सम्बन्ध: विभुत्वयोग:।

विमोक्ष: (पुं) (56,57,58) त्रिविधदु:खात् मुक्ति:।

विलक्षण: (विशे.) (36) विविधं विरुद्धं वा लक्षणं यस्य। प्र. गुणविशेष: इत्यस्य विशे.।

विशेष: (विशे.) (34,38,41,56) स्थूल:। प्र. विषय: इत्यस्य विशे.।

विषय: (पुं) (11,34,35) ज्ञानग्राह्य: पदार्थ:।

विषयाख्यम् (नपुं) (33) विषयम् आख्याति निवेदयति ।

वृत्ति: (स्त्री.) (12,28,29,30) क्रिया ।व्यापार:।

वृत्ति: (स्त्री.) (13,) प्रवृत्ति:।

वैकृत: (विशे.) (25) अहङ्कारस्य अन्यतम: भेद:। प्र. अहङ्कार: इत्यस्य विशे.। वैकृत: (सात्त्विक:) अहङ्कार: इति।

वैकृतिक: (विशे.) (43) उपायै: प्राप्त: , न तु जन्मसिद्ध:। प्र. धर्मादि-भावा: इत्यस्य विशे.।

वैराग्यम् (नपुं) (45) ऐहिक-पारलौकिक-भोगानां विषये तृष्णाया: अभाव:।

वैश्वरूप्यम् (पुं) (15)नानाविधरूपम्।

व्यक्तम् (नपुं) (2,10,11) महदादिप्रपञ्च:।

व्यवधानम् (नपुं) (7) विघ्न:। यथा भित्ते: परत्र विद्यमानस्य घटस्य चाक्षुषप्रत्यक्षे भित्ति: इति व्यवधानम्।

– – – – –

शक्तम् (विशे.) (9) शक्त्या युक्तम्। प्र. शक्ति: नाम कार्यजनन-सामर्थ्यम्। तत् सामर्थ्यं यस्मिन् अस्ति तत् शक्तम्। प्र. कारणम् इत्यस्य विशे.।यथा घटजनने मृत्तिका शक्ता।

शक्ति: (स्त्री.) (15) कारणे विद्यमानं कार्यजननानुकूलं सामर्थ्यम्। एतत् सामर्थ्यम् एव कार्यस्य अव्यक्तदशा ।

शक्यम् (विशे.) (9) कारणगताया: कार्यजनकशक्ते: विषय: ।यत् कार्यं जनयितुं शक्ति: कारणे विद्यते तत् । प्र. कार्यम् इत्यस्य विशे.।यथा मृत्तिकया घट: शक्य:।

शब्द: (पुं) (50) अधीतानां शब्दानाम् अर्थस्य ज्ञानम्।अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

शान्त: (विशे.) (38) सुखकर:।प्र. भूतानि इति एतेषां विशे.।

श्रोत्रम् (नपुं) (26) शब्दग्राहकम् इन्द्रियम्।

– – – – –

षोडशक (विशे.) (3,22) षोडशतत्त्वानां समूह:।5 महाभूतानि तथा 11 इन्द्रियाणि इति आहत्य 16 तत्त्वानि अस्मिन् समूहे समाविष्टानि। प्र. विकार:/गण: इत्यस्य विशे.।

– – – – –

सङ्कल्पकम् (विशे.) (27) सङ्कल्प इत्युक्ते कल्पना। सङ्कल्पं करोति इति। प्र. मन: इत्यस्य विधे.।

सङ्घात:। (पुं) (17) समानधर्मवतां परस्परसम्बन्ध:।यथा घट:। घट: हि समानधर्मवतां मृत्तिकाकणानां परस्परसम्बन्धरूप:।

सत् (विशे.) (9) भावरूपम्। प्र. कार्यम् इत्यस्य विधे.।

समन्वय: (पुं) (15) विभिन्नानां पदार्थानाम् एकरूपत्वम्।

समानाभिहार: (पुं) (7) समानानां पदार्थानाम् एकत्र स्थिति:।

समुदय: (पुं) (16) समानकाले उदय:। कार्यार्थम् एकत्र प्रवृत्ति:।

सर्ग: (पुं) (21,53,54,66) सृष्टि:।

सांसिद्धिक(विशे.) (43) प्रकृत्या एव सिद्ध:, न तु उपायै: प्राप्त:। प्र. धर्मादिभावा: इत्यस्य विशे.।

‘साक्षित्वम् (नपुं) (19) उदासीनत्वे सति बोद्धृत्वम्।

साङ्ख्यम् (वि.) (ग्रन्थनाम्नि) सम्यग् विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वानि प्रकृतिपुरुषपदार्थरूपाणि यस्मिन्, तत् शास्त्रम्।प्र. शास्त्रम् इति एतस्य विशे.।

सामान्यकरणवृत्ति: (स्त्री.) (29) सामान्या च करणवृत्ति: च सामान्यकरण-वृत्ति:। त्रयाणां करणानां मनोबुद्ध्यहङ्कार-संज्ञकानां साधारण: व्यापार: इत्यर्थ:।

साम्प्रतकालम् (विशे.) (33) वर्तमानकालिकम्। प्र. बाह्यकरणम् इत्यस्य विधे.।

सिद्धि: (स्त्री.) (46,47,49,50,51) बुद्धे: धर्म:।

सुहृत्प्राप्ति: (50)वेदार्थनिर्णयार्थं सहायकस्य वादिन: प्राप्ति:। अष्टसु सिद्धिषु अन्यतमा सिद्धि:।

सुस्थ: (विशे.) (65) राजसतामसबुद्ध्या अकलुषित:। प्र. पुरुष: इत्यस्य विशे.।

सूक्ष्म: (विशे.) (39) प्रत्यक्षप्रमाणेन अग्राह्या:। प्र. विशेष: इत्यस्य विशे.।

स्तम्ब: (पुं) (54) तृणम्।

स्वालक्षण्यम् (नपुं) (29)स्वस्य लक्षणम्। लक्षणं नाम असाधारण: धर्म:।

– – – – –

हार्यम् (विशे.) (32)आहरणकर्मण: विषय:। प्र. कार्यम् इत्यस्य विशे.।

हेतु: (पुं) (1,10,31) कारणम्।

हेतुमत् (विशे.) (10) हेतु: नाम कारणम्। हेतुना युक्तं हेतुमत्। सकारणमित्यर्थ:। प्र. व्यक्तम् इत्यस्य विधे.।